(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.48. अध्यायः 048
Mahabharata - Vana Parva - Chapter Topics
धृतराष्ट्रेण संजयाग्रे पाण्डवपराक्रमस्मरणेन पुत्रान्प्रति परिशोचनम् ॥ 1 ॥ संजयेन धृतराष्ट्रंप्रति स्वस्य चारमुस्वात् पाण्डवदिदृक्षया वनं गतानां कृष्णादीनां दुर्योधनादिवधप्रतिज्ञाश्रवणकथनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-48-0x(1905)(17690)
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥ 3-48-1(17691)
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥ 3-48-2(17692)
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम्।
संचिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत् ॥ 3-48-3(17693)
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥ 3-48-4(17694)
देवपुत्रौ महाभागौ देवराजसमद्युती।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ 3-48-5(17695)
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ।
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ ॥ 3-48-6(17696)
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ 3-48-7(17697)
निःशेषमिह पश्यामि मम सैन्यस्य संजय ॥ 3-48-8(17698)
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ।
द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ ॥ 3-48-9(17699)
वृष्णयोऽथ महेष्वासाः पाञ्चाला वा महौजसः।
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ 3-48-10(17700)
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन।
न शक्यः सहितुं वेगः पर्वतैरपि दुःसहः ॥ 3-48-11(17701)
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः।
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ 3-48-12(17702)
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ 3-48-13(17703)
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ 3-48-14(17704)
संजय उवाच। 3-48-15x(1906)
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः।
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ 3-48-15(17705)
श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः।
त्वरितः कामय्के पार्थान्समभावयदच्युतः ॥ 3-48-16(17706)
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ 3-48-17(17707)
तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान्।
चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ 3-48-18(17708)
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः।
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ 3-48-19(17709)
अमर्षितो हि कृष्णोपि दृष्ट्वा पार्थांस्तदा गतान्।
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ 3-48-20(17710)
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ 3-48-21(17711)
यत्रसर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्।
सवङ्गाङ्गान्सपौण्ड्रौढ्रान्सचोलद्रविडान्ध्रकान् ॥ 3-48-22(17712)
सागरानूपकांश्चैव ये च पत्तनवासिनः।
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः ॥ 3-48-23(17713)
पश्चिमानि चराष्ट्राणि शतशः सागरान्तिकान्।
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ 3-48-24(17714)
हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा।
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान् ॥ 3-48-25(17715)
केकयान्मालवांश्चैव तथा काश्मीरकानपि।
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान् ॥ 3-48-26(17716)
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी।
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ 3-48-27(17717)
रामेण सह कौरव्य भीमार्जुनवयैस्तथा।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ 3-48-28(17718)
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत।
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति ॥ 3-48-29(17719)
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्।
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमां ॥ 3-48-30(17720)
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे।
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च ॥ 3-48-31(17721)
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन।
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ 3-48-32(17722)
वर्षात्रयोदशादूर्ध्वं सत्यं मां कुरु केशव।
प्रतिज्ञातो वने वासो राज्ञांमध्ये मया ह्ययम् ॥ 3-48-33(17723)
धर्मराजस्य वचनं प्रतिश्रुत्य सभासदः।
धृष्टद्युम्नपुरोगास्ते समयामासुऱञ्जसा ॥ 3-48-34(17724)
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्।
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः ॥ 3-48-35(17725)
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्।
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥ 3-48-36(17726)
ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥ 3-48-37(17727)
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले ॥ 3-48-38(17728)
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ 3-48-39(17729)
परिक्लिष्टाऽसियैस्तत्रयैश्चासि समुपेक्षिता।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ 3-48-40(17730)
एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः।
सर्वेतेजस्विनः शूराः सर्वेचाहतलक्षणाः ॥ 3-48-41(17731)
ते धर्मराजेन वृतावर्षादूर्ध्वं त्रयोदशात्।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ 3-48-42(17732)
रामश्च कृष्णश्च धनंजयश्च
प्रद्युम्नसाम्बौ युयुधानभीमौ।
माद्रीसुतौ केकयराजपुत्राः
पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥ 3-48-43(17733)
एतान्सर्वाल्लोँकवीरानजेया-
न्महात्मनः सानुबन्धान्ससैन्यान्।
को जीवितार्थी समरेऽभ्युदीया-
त्क्रुद्धान्सिंहान्केसरिणो यथैव ॥ 3-48-44(17734)
धृतराष्ट्र उवाच। 3-48-45x(1907)
यन्माऽब्रवीद्विदुरो द्यूतकाले
त्वं पाण्डवाञ्जेषय्सि चेन्नरेन्द्र।
ध्रुवं कुरूणामयमन्तकालो
महाभयो भविता शोणितौधः ॥ 3-48-45(17735)
मन्ये यथा तद्भवितेति सूत
यथा क्षत्ता प्राह वचः पुरा माम्।
असंशयं भविता युद्धमेत-
द्गते काले पाण्डवानां यथोक्तम् ॥ 3-48-46(17736)

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-48-9 न क्षंस्येते क्षमां न करिष्तः ॥ 3-48-11 सहितुं सोढुम् ॥ 3-48-12 शैक्यया शिक्यस्थया भूमिं भित्त्वा पातालं प्रवेक्ष्यतीति भयादन्तरिक्षे एव धृतयेत्यर्थः ॥ 3-48-27 प्रतिसारिणी प्रतीपं सरतीति नीचानुगामिनीत्यर्थः। आहारेष्यामि इदानीमेवेति शेषः। अतएव प्रार्थना सत्यं मां कुर्विति ॥ 3-48-34 समयामासुः समं युक्तमित्याचख्युः। समशब्दात्तदाचष्ट इति णिच् लिटि आम् ॥ 3-48-43 युयुधानः सात्यकिः ॥ 3-48-44 केसरिणः क्रोधेनोच्छ्रितसटान् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.